|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.152. अध्यायः 152
Mahabharata - Shanti Parva - Chapter Topics
वैदिशनाम्नि नगरे केषुचिद्ब्राह्मणेषु मृतबालं श्मशानमुपनीय गृध्रजम्बुकवचनैर्ढौलायमानमानसतथा चिन्तयत्सु तत्र यदृच्छासमागतपरमेश्वरेण पार्वतीचोदनया मृतबालकोज्जीवनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-152-0x(5801)(71055)
कच्चित्पितामहेनासीच्छ्रुवं वा दृष्टमेव च।
कच्चिन्मर्त्यो मृतो राजन्पुनरुज्जीवितोऽभवत्॥ 12-152-1(71056)
भीष्म उवाच। 12-152-2x(5802)
शृणु पार्थ यथावृत्तमितिहासं पुरातनम्।
गृध्रजम्बुकसंवादं यो वृत्तो वैदिशे पुरे॥ 12-152-2(71057)
कस्यचिद्ब्राह्मणस्यासीद्दुःखलब्धः सुतो मृतः।
बाल एव विशालाक्षो बालग्रहनिपीडितः॥ 12-152-3(71058)
दुःखिताः केचिदादाय बालमप्राप्तयोवनम्।
कुलसर्वस्वभूतं वै रुदन्तः शोककर्शिताः॥ 12-152-4(71059)
बालं मृतं गृहीत्वाऽथ श्मशानाभिमुखाः स्थिताः।
अङ्गेनाङ्गं समाक्रस्य रुरुदुर्भृशदुःखिताः॥ 12-152-5(71060)
शोचन्तस्तस्य पूर्वोक्तान्भाषितांश्चासकृत्पुनः।
तं बालं भूतले क्षिप्य प्रतिगन्तुं न शक्नुयुः॥ 12-152-6(71061)
तेषां रुदितशब्देन गृध्रोऽभ्येत्य वचोऽब्रवीत्।
प्रेतात्मकमिमंकाले त्यक्त्वा गच्छत माचिरम्॥ 12-152-7(71062)
इह पुंसां सहस्राणि स्त्रीसहस्राणि चैव ह।
समानीतानि कालेन हित्वा वै यान्ति बान्धवाः॥ 12-152-8(71063)
संपश्यत जगत्सर्वं सुखदुःखैरधिष्ठितम्।
संयोगो विप्रयोगश्च पर्यायेणोपलभ्यते॥ 12-152-9(71064)
गृहीत्वा ये च गच्छन्ति येऽनुयान्ति च तान्मृतान्।
तेऽप्यायुषः प्रमाणेन स्वेन गच्छन्ति जन्तवः॥ 12-152-10(71065)
अलं स्थित्वा श्मशानेऽस्मिन्गृध्रगोमायुसंकुले।
कङ्कालबहुले घोरे सर्वप्राणिभयंकरे॥ 12-152-11(71066)
न पुनर्जीवितः कश्चित्कालधर्ममुपागतः।
प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी॥ 12-152-12(71067)
सर्वेण खलु मर्तव्यं मर्त्यलोके प्रसूयता।
कृतान्तविहिते मार्गे मृतं को जीवयिष्यति॥ 12-152-13(71068)
दिशान्तोपचितो यावदस्तं गच्छति भास्करः।
गम्यतां स्वमधिष्ठानं सुतस्नेहं विसृज्य वै॥ 12-152-14(71069)
ततो गृध्रवचः श्रुत्वा विक्रोशन्तस्तदा नृप।
बान्धवास्तेऽभ्यगच्छन्त पुत्रमुत्सृज्य भूतले॥ 12-152-15(71070)
विनिश्चित्याथ च तदा विक्रोशन्तस्ततस्ततः।
[मृत इत्येव गच्छन्तो निराशास्तस्य दर्शने॥] 12-152-16(71071)
निश्चितार्थाश्च ते सर्वे संत्यजन्तः स्वमात्मजम्।
निराशा जीविते तस्य मार्गमावृत्य धिष्ठिताः॥ 12-152-17(71072)
ध्वाङ्क्षपक्षसवर्णस्तु बिलान्निःसृत्य जम्बुकः।
गच्छमानान्स्म तानाह निर्घृणाः खलु मानुषाः॥ 12-152-18(71073)
आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत मा भयम्।
बहुरूपो मुहूर्ताच्च जीवेदपि च बालकः॥ 12-152-19(71074)
दर्भान्भूमौ विनिक्षिप्य पुत्रस्नेहविनाकृताः।
श्मशाने सुतमुत्सृज्य कस्माद्गच्छत निर्घृणाः॥ 12-152-20(71075)
न वोऽस्त्यस्मिन्सुते स्नेहो बाले मधुरभाषिणि।
यस्य भाषितमात्रेण प्रसादमधिगच्छत॥ 12-152-21(71076)
न पश्यध्वं सुतस्नेहो यादृशः पशुपक्षिणाम्।
न तेषां धारयित्वा तान्कश्चिदस्ति फलागमः॥ 12-152-22(71077)
चतुष्पात्पक्षिकीटानां प्राणिनां स्नेहसङ्गिनाम्।
परलोकगतिस्थानां मुनियज्ञक्रियामिव॥ 12-152-23(71078)
तेषां पुत्राभिरामाणामिह लोके परत्र च।
न गुणो दृश्यते कश्चित्प्रजाः संधारयन्ति च॥ 12-152-24(71079)
अपश्यतां प्रियान्पुत्रान्येषां शोको न तिष्ठति।
न ते पोषणसंप्रीता मातापितर एव हि॥ 12-152-25(71080)
मानुषाणां कुतः स्नेहो येषां शोको न विद्यते।
इमं कुलकरं पुत्रं त्यक्त्वा क्व नु गमिष्यथ॥ 12-152-26(71081)
चिरं मुञ्चत बाष्पं च चिरं स्नेहेनन पश्यत।
एवंविधानि हीष्टानि दुस्त्यजानि विशेषतः॥ 12-152-27(71082)
क्षीणस्याथामिशस्तस्य श्मशानाभिमुखस्य च।
बान्धवा यत्र तिष्ठति तत्रान्यो नाधितिष्ठति॥ 12-152-28(71083)
सर्वस्य दयिताः प्राणाः सर्वः स्नेहं च विन्दति।
तिर्यग्योनिष्वपि संतां स्नेहं पश्यत यादृशम्॥ 12-152-29(71084)
त्यक्त्वा कथं गच्छथेमं पद्मलोलायतेक्षणम्।
यथा नवोद्वाहकृतं स्नानमाल्यविभूषितम्। 12-152-30(71085)
जम्बुकस्य वचः श्रुत्वा कृपणं परिदेवतः।
न्यवर्तन्त तदा सर्वे बालार्थं ते स्म मानुषाः॥ 12-152-31(71086)
गृध्र उवाच। 12-152-32x(5803)
अहो बत नृशंसेन जम्बुकेनाल्पमेधसा।
क्षुद्रेणोक्ता हीनसत्वा मानुषाः किं निवर्तथ॥ 12-152-32(71087)
पञ्चभूतपरित्यक्तं शुष्कं काष्ठत्वमागतम्।
कस्माच्छोचथ निश्चेष्टमात्मानं किं न शोचथ॥ 12-152-33(71088)
तपः कुरुत वै तीव्रं मुच्यध्वं येन किल्बिषात्।
तपसा लभ्यते सर्वं विलापः किं करिष्यति॥ 12-152-34(71089)
अनिष्टानि न भाग्यानि जानीत स्वंस्वमात्मना।
येन गच्छति बालोऽयं दत्त्वा शोकमनन्तकम्॥ 12-152-35(71090)
धनं गावः सुवर्णं च मणिरत्नमथापि च।
अपत्यं च तपोमूलं तपो योगाच्च लभ्यते॥ 12-152-36(71091)
यथा कृता च भूतेषु प्राप्यते सुखदुःखिता।
गृहीत्वा जायते जन्तुर्दुःखानि च सुखानि च॥ 12-152-37(71092)
न कर्मणा पितुः पुत्रः पिता व्रा पुत्रकर्मणा।
मार्गेणान्येन गच्छन्ति बद्धाः सुकृतदुष्कृतैः॥ 12-152-38(71093)
धर्मं चरत यत्नेन तथाऽधर्मान्निवर्तत।
वर्तध्वं च यथाकालं दैवतेषु द्विजेषु च॥ 12-152-39(71094)
शोकं त्यजत दैन्यं च सुतस्नेहान्निवर्तत।
त्यज्यतामयमाक्रोशस्ततः शीघ्रं निवर्तत॥ 12-152-40(71095)
यत्करोति शुभं कर्म तथा कर्म सुदारुणम्।
तत्कर्तैव समश्नाति बान्धवानां किमत्र ह॥ 12-152-41(71096)
इह त्यक्त्वा न तिष्ठन्ति बान्धवा बान्धवं प्रियम्।
स्नेहमुत्सृज्य गच्छन्ति बाष्पपूर्णाविलेक्षणाः॥ 12-152-42(71097)
प्राज्ञो वा यदि वा मूर्खः सधनो निर्धनोऽपि वा।
सर्वः कालवशं याति शुभाशुभसमन्वितः॥ 12-152-43(71098)
किं करिष्यथ शोचित्वा मृतं किमनुशोचथ।
सर्वस्य हि प्रभुः कालो धर्मतः समदर्शनः॥ 12-152-44(71099)
यौवनस्थांश्च बालांश्च बृद्धान्गर्भगतानपि।
सर्वानाविशते मृत्युरेवंभूतमिदं जगत्॥ 12-152-45(71100)
जम्बुक उवाच। 12-152-46x(5804)
अहो मन्दीकृतः स्नेहो गृध्रेणेहाल्पबुद्धिना।
पुत्रस्नेहाभिभूतानां युष्माकं शोचतां भृशम्॥ 12-152-46(71101)
समैः सम्यक्प्रयुक्तैश्च वचनैर्हेतुदर्शनैः।
`सर्वमेतत्प्रपद्याशु कुरुध्वं वा विचारणां।'
यद्गच्छथ जलस्थानं स्नेहमुत्सृज्य दुस्त्यजम्॥ 12-152-47(71102)
अहो पुत्रवियोगेन मृतशून्योपसेवनात्।
क्रोशतां वा भृशं दुःखं विवत्सानां गवामिव॥ 12-152-48(71103)
अद्य शोकं विजानामि मानुषाणां महीतले।
स्नेहं हि कारणं कृत्वा ममाप्यश्रूण्यथापतन्॥ 12-152-49(71104)
यत्नो हि सततं कार्यस्ततो दैवेन सिद्ध्यति।
दैवं पुरुषकारश्च कृतान्तेनोपपद्यते॥ 12-152-50(71105)
अनिर्वेदः सदा कार्यो निर्वेदाद्धि कुतः सुखम्।
प्रयत्नात्प्राप्यते ह्यर्थः कस्माद्गच्छथ निर्दयम्॥ 12-152-51(71106)
आत्ममांसोपवृत्तं च शरीरार्धमर्यी तनुम्।
पितॄणां वंशकर्तारं वने त्यक्त्वा क्व यास्यथ॥ 12-152-52(71107)
अथवाऽस्तं गते सूर्ये संध्याकाल उपस्थिते।
ततो नेष्यश्च वा पुत्रमिहस्था वा भविष्यथ॥ 12-152-53(71108)
गृध्र उवाच। 12-152-54x(5805)
अद्य वर्षसहस्रं मे साग्रं जातस्य मानुषाः।
न च पश्यामि जीवन्तं मृतं स्त्रीपुंनपुंसकम्॥ 12-152-54(71109)
मृता गर्भेषु जायन्ते जातमात्रा म्रियन्ति च।
चंक्रमन्तो म्रियन्ते च यौवनस्थास्तथा परे॥ 12-152-55(71110)
अनित्यानीह भाग्यानि चतुष्पात्पक्षिणामपि।
जङ्गमाजङ्गमानां च ह्यायुरग्रेऽवतिष्ठते॥ 12-152-56(71111)
इष्टदारवियुक्ताश्च पुत्रशोकान्वितास्तथा।
दह्यमानाः स्म शोकेन गृहं गच्छन्ति नित्यशः॥ 12-152-57(71112)
अनिष्टानां सहस्राणि तथेष्टानां शतानि च।
उत्सृज्येह प्रयाता वै बान्धवा भृशदुःखिताः॥ 12-152-58(71113)
त्यज्यतामेष निस्तेजाः शून्यः काष्ठत्वमागतः।
अन्यदेहविषक्तं हि शिशुं काष्ठमुपासथ॥ 12-152-59(71114)
त्यक्तजीवस्य वै बाष्पं कस्माद्धित्वा न गच्छत।
निरर्थको ह्ययं स्नेहो निष्फलश्च परिश्रमः॥ 12-152-60(71115)
न च क्षुर्भ्यां न कर्णाभ्यां च शृणोति स पश्यति।
कस्मादेनं सप्नुत्सृज्य न गृहान्गच्छताशु वै॥ 12-152-61(71116)
मोक्षधर्माश्रितैर्वाक्यैर्हेतुमद्भिः सुनिष्ठुरैः।
भयोक्ता गच्छत क्षिप्रं स्वं स्वमेव निवेशनम्॥ 12-152-62(71117)
प्रज्ञाविज्ञानयुक्तेन बुद्धिसंज्ञाप्रदायिना।
वच्चं श्राविता नूनं मानुषाः संनिवर्तथ॥ 12-152-63(71118)
[शोको द्विगुणतां याति दृष्ट्वा स्मृत्वा च चेष्टितम्।
इत्येतद्वचनं श्रुत्वा सन्निवृत्तास्तु मानुषाः।
अपश्यत्तं तदा सुप्तं द्रुतमागत्य जम्बुकः॥] 12-152-64(71119)
जम्बुक उवाच। 12-152-65x(5806)
इमं कनकवर्णाभं भूषणैः समलंकृतम्।
गृध्रवाक्यात्कथं पुत्रं त्यक्ष्यध्वं पितृपिण्डदम्॥ 12-152-65(71120)
न स्नेहस्य च विच्छेदो विलापरुदितस्य च।
मृतस्यास्य परित्यागात्तापो वै भविता ध्रुवम्॥ 12-152-66(71121)
श्रूयते शम्बुके शूद्रे हते ब्राह्मणदारकः।
जीवितो धर्ममासाद्य रामात्सत्यपराक्रमात्॥ 12-152-67(71122)
तथा श्वैत्यस्य राजर्षेर्बालो दिष्टान्तमागतः।
मुनिना धर्मनिष्ठेन मृतः संजीवितः पुनः॥ 12-152-68(71123)
तथा कश्चिद्भवेत्सिद्धो मुनिर्वा देवतापि वा।
कृपणानामनुक्रोशं कुर्याद्वो रुदतामिह॥ 12-152-69(71124)
इत्युक्तास्ते न्यवर्तन्त शोकार्ताः पुत्रवत्सलाः।
अङ्के शिरः समाधाय रुरुदुर्बहुविस्तरम्।
तेषां रुदितशब्देन गृध्रोऽभ्येत्य वचोऽब्रवीत्॥ 12-152-70(71125)
अश्रुपातपरिक्लिन्नः पाणिस्पर्शप्रपीडितः।
धर्मराजप्रयोगाच्च दीर्घनिद्रां प्रवेशितः॥ 12-152-71(71126)
`तपसाऽपि हि संयुक्तो जनः कालेन हन्यते।
सर्वस्नेहावसक्तानामिदं हि स्नेहवर्तनम्॥' 12-152-72(71127)
बालवृद्धसहस्राणि सदा संत्यज्य बान्धवाः।
दिनानि चैव रात्रीश्च दुःखं तिष्ठन्ति भूतले॥ 12-152-73(71128)
अलं निर्बन्धमागत्य शोकस्य परिवारणम्।
अप्रत्ययं कुतो ह्यस्य पुनरद्येह जीवितम्॥ 12-152-74(71129)
`नैष जम्बुकवाक्येन पुनः प्राप्स्यति जीवितम्।'
मृतस्योत्सृष्टदेहस्य पुनर्देहो न विद्यते॥ 12-152-75(71130)
नैव मूर्तिप्रदानेन जम्बुकस्य शतैरपि।
न स जीवयितुं शक्यो बालो वर्षशतैरपि॥ 12-152-76(71131)
अथ रुद्रः कुमारो वा ब्रह्मा वा विष्णुरेव च।
वरमस्मै प्रयच्छन्ति ततो जीवेदयं शिशुः॥ 12-152-77(71132)
नैव बाष्पविमोक्षेण न वा श्वासकृतेन च।
न दीर्घरुदितेनायं पुनर्जीवं गमिष्यति॥ 12-152-78(71133)
अहं च क्रोष्टुकश्चैव यूयं ये चास्य बान्धवाः।
धर्माधर्मौ गृहीत्वेह सर्वे वर्तामहेऽध्वनि॥ 12-152-79(71134)
अप्रियं परुषं चापि परद्रोहं परस्त्रियम्।
अधर्ममनृतं चैव दूरात्प्राज्ञो विवर्जयेत्॥ 12-152-80(71135)
धर्मं सत्यं श्रुतं न्याय्यं महतीं प्राणिनां दयाम्।
अजिह्नत्वमशाठ्यं च यत्नतः परिमार्गत॥ 12-152-81(71136)
मातरं पितरं वाऽपि बान्धवान्सुहृदस्तथा।
जीवतो ये न पश्यति तेषां धर्मविपर्ययः॥ 12-152-82(71137)
यो न पश्यति चक्षुर्भ्यां नेङ्गते च कथंचन।
तस्य निष्ठावसानान्ते रुदन्ताः किं करिष्यथ॥ 12-152-83(71138)
इत्युक्तास्ते सुतं त्यक्त्वा भूमौ शोकपरिप्लुताः।
दह्यमानाः सुतस्नेहात्प्रययुर्बान्धवा गृहम्॥ 12-152-84(71139)
जम्बुक उवाच। 12-152-85x(5807)
दारुणो मर्त्यलोकोऽयं सर्वप्राणिविनाशनः।
इष्टबन्धुवियोगश्च तथेहाल्पं च जीवितम्॥ 12-152-85(71140)
बह्वलीकमसत्यं चाप्यतिवादाप्रियंवदम्।
इमं प्रेक्ष्य पुनर्भावं दुःखशोकविवर्धनम्।
न मे मानुषलोकोऽयं मुहूर्तमपि रोचते॥ 12-152-86(71141)
अहो धिग्गृध्रवाक्येन यथैवाबुद्धयस्तथा।
कथं गच्छथ निःस्नेहाः सुतस्नेहं विसृज्य च॥ 12-152-87(71142)
प्रदीप्ताः पुत्रशोकेन सन्निवर्तथ मानुषाः।
श्रुत्वा गृध्रस्य वचनं पापस्येहाकृतात्मनः॥ 12-152-88(71143)
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्।
सुखदुःखावृते लोके नास्ति सौख्यमनन्तकम्॥ 12-152-89(71144)
इमं क्षितितले त्यक्त्वा बालं रूपसमन्वितम्।
कुलशोभाकरं मूढाः पुत्रं त्यक्त्वा क्व यास्यथ॥ 12-152-90(71145)
रूपयौवनसंपन्नं द्योतमानमिव श्रिया।
जीवन्तमेव पश्यामि मनसा नात्र संशयः॥ 12-152-91(71146)
विनाशेनास्य न हि वै सुखं प्राप्स्यथ मानुषाः।
पुत्रशोकाभितप्तानां मृतमप्यद्य वः क्षमम्॥ 12-152-92(71147)
दुःखसंभावनं कृत्वा धारयित्वा सुखं स्वयम्।
त्यक्त्वा गमिष्यथ क्वाद्य समुत्सृज्याल्पबुद्धिवत्॥ 12-152-93(71148)
भीष्म उवाच। 12-152-94x(5808)
तथा धर्मविरोधेन प्रियमिथ्याभिधायिनाम्।
श्मशानवासिना नित्यं रात्रिं मृगयता नृप॥ 12-152-94(71149)
ततो मध्यस्थतां नीता वचनैरमृतोपमैः।
जम्बुकेन स्वकार्यार्थं बान्धवास्तत्र वारिताः॥ 12-152-95(71150)
गृध्र उवाच। 12-152-96x(5809)
अयं प्रेतसमाकीर्णो यक्षराक्षससेवितः।
दारुणः काननोद्देशः कौशिकैरभिनादितः॥ 12-152-96(71151)
भीमः सुघोरश्च तथा नीलमेघसमप्रभः।
अस्मिञ्शवं परित्यज्य प्रेतकार्याण्युपासत॥ 12-152-97(71152)
भानुर्यावन्न यात्यस्तं यावच्च विमला दिशः।
तावदेनं परित्यज्य प्रेतकार्याण्युपासत॥ 12-152-98(71153)
नदन्ति परुषं श्येनाः शिवाः क्रोशन्ति दारुणम्।
मृगेन्द्राः प्रतिनर्दन्ति रविरस्तं च गच्छति॥ 12-152-99(71154)
चिता धूमेन नीलेन संरज्यन्ते च पादपाः।
श्मशाने च निराहाराः प्रतिनर्दन्ति देवताः॥ 12-152-100(71155)
सर्वे विकृतदेहाश्चाप्यस्मिन्देशे सुदारुणे।
युष्मान्प्रधर्षयिष्यन्ति विकृता मांसभोजिनः॥ 12-152-101(71156)
क्रूरश्चायं वनोद्देशो भयमद्य भविष्यति।
त्यज्यतां काष्ठभूतोऽयं मुच्यतां जाम्बुकं वचः॥ 12-152-102(71157)
यदि जम्बुकवाक्यानि निष्फलान्यनृतानि च।
श्रोष्यथ भ्रष्टविज्ञानास्ततः सर्वे विनङ्क्ष्यथ॥ 12-152-103(71158)
जम्बुक उवाच। 12-152-104x(5810)
स्थीयतां वो न भेतव्यं यावत्तपति भास्करः।
तावदस्मिन्सुते स्नेहादनिर्वेदेन वर्तत॥ 12-152-104(71159)
स्वैरं रुदन्तो विस्रब्धाश्चिरं स्नेहेन पश्यत।
`दारुणेऽस्मिन्वनोद्देशे भयं वो न भविष्यति॥ 12-152-105(71160)
अयं सौम्यो वनोद्देशः पितृणां निधनाकरः।'
स्थीयतां यावदादित्यः किंवः क्रव्यादभाषितैः॥ 12-152-106(71161)
यदि गृध्रस्य वाक्यानि तीव्राणि रभसानि च।
गृह्णीत मोहितात्मानः सुतो वो न भविष्यति॥ 12-152-107(71162)
भीष्म उवाच। 12-152-108x(5811)
गृध्रो नास्तमितेऽभ्येति तिष्ठेन्नक्तं च जम्बुकः।
मृतस्य तं परिजनमूचतुस्तौ क्षुधान्वितौ॥ 12-152-108(71163)
स्वकार्यबद्धकक्षौ तौ राजन्गृध्रोऽथ जम्बुकः।
क्षुत्पिपासापरिश्रान्तौ शास्त्रमालम्ब्य जल्पतः॥ 12-152-109(71164)
तयोर्विज्ञानविदुषोर्द्वयोर्मृगपतत्रिणोः।
वाक्यैरमृतकल्पैस्तैः प्रतिष्ठन्ते व्रजन्ति च॥ 12-152-110(71165)
शोकदैन्यसमाविष्टा रुदन्तस्तस्थिरे तदा।
स्वकार्यकुशलाभ्यां ते संभ्राम्यन्ते ह नैपुणात्॥ 12-152-111(71166)
तथा तयोर्विवदतोर्विज्ञानविदुषोर्द्वयोः।
बान्धवानां स्थितानां चाप्युपातिष्ठत शंकरः॥ 12-152-112(71167)
देव्या प्रणोदितो देवः कारुण्यार्द्रीकृतेक्षणः।
ततस्तानाह मनुजान्वरदोऽस्मीति शंकरः॥ 12-152-113(71168)
ते प्रत्यूचुरिदं वाक्य दुःखिताः प्रणताः स्थिताः।
एकपुत्रविहीनानां सर्वेष्नां जीवितार्थिनाम्।
पुत्रस्य नो जीवदानाज्जीवितं दातुमर्हसि॥ 12-152-114(71169)
एवमुक्तः स भगवान्वारिपूर्णेन पाणिना।
जीवं तस्मै कुमाराय प्रादाद्वर्षशतानि वै॥ 12-152-115(71170)
तथा गोमायुगृध्राभ्यां प्राददत्क्षुद्विनाशनम्।
वरं पिनाकी भगवान्सर्वभूतहिते रतः॥ 12-152-116(71171)
ततः प्रणम्य ते देवं श्रेयोहर्षसमन्विताः।
कृतकृत्याः सुसंहृष्टाः प्रातिष्ठन्त तदा विभो॥ 12-152-117(71172)
अनिर्वेदेन दीर्घेण निश्चयेन ध्रुवेण च।
देवदेवप्रसादाच्च क्षिप्रं फलमवाप्यते॥ 12-152-118(71173)
पश्य दैवस्य संयोगं बान्धवाना च निश्चयम्।
कृपणानां तु रुदतां कृतमश्रुप्रमार्जनम्॥ 12-152-119(71174)
पश्य चाल्पेन कालेन निश्चयाध्वेषणेन च।
प्रसादं शंकरात्प्राप्य दुःखिताः सुखमाप्नुवन्॥ 12-152-120(71175)
ते विस्मिताः प्रहृष्टाश्च पुत्रसंजीवनात्पुनः।
बभूवुर्भरतश्रेष्ठ प्रसादाच्छंकरस्य वै॥ 12-152-121(71176)
ततस्ते त्वरिता राजंस्त्यक्त्वा शोकं शिशूद्भवम्।
विविशुः पुत्रमादाय नगरं हृष्टमानसाः॥ 12-152-122(71177)
एषा बुद्धिः समस्तानां चातुर्वर्ण्येन दर्शिता॥ 12-152-123(71178)
धर्मार्थमोक्षसंयुक्तमितिहासं पुरातनम्।
श्रुत्वा मनुष्यः सततमिहामुत्र प्रमोदते॥ ॥ 12-152-124(71179)
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि द्विपञ्चाशदधिकशततमोऽध्यायः॥ 152॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-152-2 यो वृत्तो नैमिषे पुरेति झ. पाठः॥ 12-152-5 अङ्केनाङ्कं समाक्रम्येति ड. थ. पाठः॥ 12-152-7 एकात्मकमिदं लोके इति थ. ध. पाठः॥ 12-152-8 किं तैर्वैयातबान्धवा इति थ. ध. पाठः॥ 12-152-12 न पुनर्जीवते कश्चिदिति ड. थ. द. पाठः॥ 12-152-13 जीवलोके प्रसूयतेति थ. द. पाठः॥ 12-152-14 दिशान्तोपरते काले चास्तं गच्छति भास्कर इति ध. पाठः॥ 12-152-22 न मे संधारयित्वा तु इति ध. पाठः॥ 12-152-47 यद्रच्छति जनश्चायमिति झ. पाठः॥ 12-152-69 कश्चिल्लभेत्सिद्ध इति झ. पाठः॥ 12-152-72 तपसा पि हि संयुक्ता धनवन्तो महाधियः। सर्वे मृत्युवशं यान्ति तदिदं प्रेतपत्तनमिति झ. पाठः॥ 12-152-77 वरमस्मै प्रयच्छेयुस्तत इति झ. पाठः॥ 12-152-95 बान्धवास्तस्य धारिता इति थ. पाठः॥ 12-152-104 वः युष्माभिः॥ 12-152-108 गृध्रोऽस्तमिस्याह गतो गतो नेचि च जम्बुकः इति झ. पाठः॥ 12-152-119 बान्धवानां च सत्यतामिति द. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|